ഗവ. എച്ച് എസ് എസ് മീനങ്ങാടി/കഥകൾ
സ്കൂൾ | സൗകര്യങ്ങൾ | പ്രവർത്തനങ്ങൾ | പ്രൈമറി | എച്ച്.എസ് | എച്ച്.എസ്.എസ്. | ചരിത്രം | അംഗീകാരം |
കഥ
|
प्रेरणा
-
രാജേന്ദ്രൻ മാടമന (എച് എസ് ടി സംസ്കൃതം )
्रीमन्, अवतरतु , प्राप्तञ्च तत् यदवतरणीयम् । यानचालकस्य मृदुभाषणेन जागरितो सदाशिवः दीर्घिःनिश्वासानन्तरं करवस्त्रेण अश्रूणि अमार्जयत्। जनकः जननी एका कनिष्ठसोदरी ,सदाशिवस्य परिवारः अयम्। पिता गोपालः कृ षकः,माता गृहिणी च। सोदरी पञ्चमकक्षायां पठति। पठने अत्सुकः सदाशिवः बाल्ये एव स्वपरिवारस्य दैन्यतां दृष्ट्वा स्वामवस्थां प्रत्यभिजानाति स्म। गोपालःप्रतिदिनं के दारं गच्छति स्म। प्रातरारभ्य सायाह्नपर्यन्तं तत्र कृ षिकर्माणि कृ त्वा श्रान्तःसन् गृहं प्रत्यागच्छति स्म। धनागम- मार्गान्तरं विना गोपालः दैनिकव्ययपरिपूर्तये बहुकष्टमनुभवति स्म। रात्रौ निद्रां गते सति सदाशिवः अनेकवारं पित्रोः भाषणं श्रुणोति स्म यत् परिवारस्य निर्धनतामधिकृ त्य। कृ षेः लभ्यमान-वार्षिकादायेन एव पठनशुल्कं तथा वस्त्राणि,पुस्तकानि च क्रीणाति। उन्नतकु लजातः इत्यनेन सर्वकारेण दीयमानानि सः न लभते स्म। मित्राणि सर्वे आडम्बरपूर्ण जीवनं यापयति सति सदाशिवः तद्दृष्ट्वा स्वपरिवारस्य निजामवस्थामालोच्य दुःखितो भवति स्म। सदाशिवः कक्ष्यायां प्रथमस्थानीयः नासीत्। पठनान्तरीक्षस्याभावेन गृहकार्येषु तथा विद्यालयीयकार्येषु च तस्य इच्छाअल्पा आसीत्। रे सदाशिव त्वं किमेमुपविशसि अलस इव । संस्कृ ताध्यापिका रागिणी भगिनी तं सर्वदा पृच्छति स्म। रागिणी सदाशिवस्य प्रियाध्यापिका अस्ति। सा सर्वदा सदाशिवं स्नेहभाषणैः लालयति स्म। सदाशिवस्य मनः भगिन्याः भाषणं आश्वासवर्षरूपेण आनन्दपूर्णं करोति स्म। स्वमनसः वातायनं तस्याः पुरतः उद्घाट्य सः आश्वासमनुभवति स्म। सदाशिवस्य पठनाय आवश्यकानि वस्तूनि रागिणी एव ददाति। रागिण्याः प्रेरणाभाषणं समीपनं सामीप्यञ्च सदाशिवस्य इच्छाशक्तिवर्धनाय अत्यन्तमुपकरोति स्म। गोपालः स्वपुत्रे प्रतीक्षां समर्प्य तस्य पठनाय सः बहुक्लेशं सोढ्वा आवश्यकानि सर्वाणि वस्तूनि क्रे तुं यतते स्म। एकदा विद्यालये स्वातन्त्र्यदिनाघोषवेलायामुद्घाटकत्वेन जिल्लाकलक्टऱ् समागतः। तस्य प्रौढिः गाम्भीर्यं तं प्रति आदरः इत्येते सदाशिवस्य मनसि चित्रितः इवाभवत्। सः रात्रौ स्वापसमये तमेव अचिन्तयत्। अहमपि तथा भवितुं शक्नोमि वा सः मनसि एवमपृच्छत्। अग्रिमदिने रागिणीभगिनीं स्वमनोविचारं सः जाल्येन प्राकटयत् सा निःसंशयमवदत्। कु तो न । त्वयापि शक्यते एव। किन्तु समीचीनपठनमावश्यकम्। अलसता मा भवेत्। इति। ततः परं वर्धतोत्साहः सः स्वपठने व्यापृतोभवत्। स्वेच्छां सः पितरमपि न्यवेदयत्। पितुः मनसि आनन्दः आकांक्षा च समागतः। रात्रौ जायया सह भाषणसमये सः निजस्थितिं तां बोधयति स्म। आगामीवर्षे इतरेषामपि के दाराणि भाटकरूपेण स्वीकृ त्य कृ षिःकर्तव्या तेन इधिकरुप्यकाणि सम्पादनीयानि । कृ षिव्ययाय वित्तकोशात् धनं गृहीतव्यमित्यादि भाविकार्याणि विचिन्त्य तौ निद्रां प्राप्तवन्तौ। एवं गतेदशमकक्षायाः वार्षिकपरीक्षा समागता। सदाशिवः अत्युत्साहेन स्वपाठान् पठित्वा वर्धतोत्साहेन शालामगच्छत्। तस्मिन् वर्षे एव प्रकृ तेः संहारताण्डेन अकाले अधिकवृष्टिः आगता। के दारान् कु ल्याः नदीःएवं सर्वाण्यपि जलोपप्लवैः प्रपूर्य मानवानां पक्षिमृगादीनां च मनस्सु भीतिमुत्पाद्य बहून् जीवजालान् मृत्युं प्रापिता प्रकृ तिः । जलोपप्लवेन गोपालस्यापि कृ षिः नाशं गताभवत्। किं कर्तव्यतामूढः सन् सः रात्रौ निद्रां विना स्वपरिवारं , वित्तकोशात् स्वीकृ तस्य लक्षाधिकधनस्य प्रत्यर्पणविषयञ्च विचिन्त्य कालं यापयति स्म। प्रभाते स्वमातुः दीनरोदनं श्रुत्वा सदाशिवः मातुः प्रकोष्ठं गते सति सः अपश्यत् स्वपितुः देहान्तशरीरं प्रकोष्ठस्योपरि । लघुलेखंलिखित्वा सः स्वबान्धवान् सर्वान् विहाय परलोकमगात्। दिनानि अतीतानि। स्वपितुः इच्छापूर्तीकरणाय दृढव्रतो भूत्वा सदाशिवः दशमकक्षामुत्तीर्य उपरिपठनञ्च समाप्य इदानीं जिल्लाकलक्टऱ् इति रूपेण समागतोस्ति। IAS प्राप्य सः तस्याः एव जिल्लायाः अध्यक्षोस्ति इदानीम्। श्वः तस्य पूर्वविद्यालये स्वातन्त्र्यदिनाघोषः प्रचलति। विशिष्टातिथिः सदाशिवः एव। सदाशिवस्य प्रेरणादायिनी रागिणीभगिनी अपि तत्रैवास्ति। अनुग्रहाशीर्वादाः स्वीकर्तव्याः। सदाशिवस्य मनसि स्वविद्यालयं प्रति स्वगुरून् प्रति स्वबान्धवान् प्रति अभिमानः। आनन्दलभ्धये ततः किम्?