ജി.എച്ച്.എസ്‌. മുന്നാട്/അക്ഷരവൃക്ഷം/ THYAAGASEELA BAALA

Schoolwiki സംരംഭത്തിൽ നിന്ന്
THYAAGASEELA BAALA
त्यागशील: बाल:

कृष्णपुरंं नाम ग्रामे एका दरिद्रा माता तस्या: दशमवयस्कः पुत्रः गोपालः च वसतः स्म | गोपालस्य माता सुमतिः रुग्णी आसीत् | गोपालः समीपस्थेषु गृहेषु कर्म कृत्वा मातुः कृते औषधं भोजनं धनं च सम्पादितवान् | गोपालस्य भोजनं वस्त्रं च अत्यन्तं विरलमेव | सुमतिः उत्तमा माता आसीत् | सा सदा गोपालं सत्प्रवृत्तिं कर्तुं प्रेरितवती आसीत् | अतः गोपालः अपि सद्गुणसम्पन्नः अभवत् | एकस्मिन् दिने गोपालः तस्य उद्योगं समाप्य स्वगृहं प्रत्यागतवान् आसीत् | तदा मार्गमध्ये एकस्य वृद्धस्य रोदनं श्रुतवान् | सः शीघ्रमेव तस्य समीपं गत्वा पृच्छति स्म यत् पितामह भवान् किमर्थं रोदितीति | किन्तु तस्य मुखात् किमपि न बहिरागतम् | सः नेत्रोन्मीलनमपि न कृतवान् | गोपाल तं बहुवारं आह्वयति स्म | किन्तु निष्फलमासीत् | तदा गोपालः समीपस्थात् तटाकात् जलं स्वीकृत्य वृद्धस्य मुखं प्रति प्रोक्षितवान् | तदा सः नेत्रोद्घाटनं कृत्वा जलं जलं इति निमन्त्रितवान् | गोपालः तस्मै जलं दत्वा अपृच्छत् यत् भवान् किमर्थमत्रागतवानिति | तदा वृद्धः अवदत् | वत्स मम पुत्रः माम् अत्र उपेक्षितवान् | गोपालः आश्चर्येण अपृच्छत् | किमर्थम् ?|तदा वृद्धः उक्तवान् | पत्नी पुत्रः च मिलित्वा मम सर्वाः सम्पदः अपहृत्य मामत्रोपेक्षितवन्तौ | वृद्धस्य वचनान् श्रुत्वा दुःखितः भूत्वा गोपालः तं अपृच्छत् | पितामह भवान् मया सह आगच्छति वा ? तस्य कारुण्यपूर्णान् वचनान् निशम्य वृद्धस्य नेत्राभ्यां अश्रूणि अपतन् | सः प्रत्यवदत् | तव मनोविशालता उत्तमा एव किन्तु अहं कुत्रापि नागमिष्यामीति | परन्तु वृद्धं तत्र उपेक्ष्य गन्तुं गोपालः सज्जः नासीत् | सः बलेन तमपि स्वगृहं प्रति आनीतवान् | गोपालस्य गृहं दृष्ट्वा तस्य अवस्थां अवगम्य वृद्धः पुनः विलपति | सः गोपालं प्रणम्य एवं अवदत् पुत्र त्वं स्वपिता इव दुर्योगात् मां रक्षितवान् | धन्यवादः पुत्र धन्यवादः | अनन्तरं माता गोपालः पितामहश्च सन्तुष्ट्या तत्र अवसन् |

SARIKA P V
9 B ജി.എച്ച്.എസ്‌. മുന്നാട്
കാസർഗോഡ് ഉപജില്ല
കാസർഗോഡ്
അക്ഷരവൃക്ഷം പദ്ധതി, 2020
കഥ


 സാങ്കേതിക പരിശോധന - Latheefkp തീയ്യതി: 06/ 05/ 2020 >> രചനാവിഭാഗം - കഥ