ഉള്ളടക്കത്തിലേക്ക് പോവുക

ജി യു പി എസ് വട്ടോളി/അക്ഷരവൃക്ഷം/रोगप्रतिरोधः

Schoolwiki സംരംഭത്തിൽ നിന്ന്
12:44, 6 മേയ് 2020-നു ഉണ്ടായിരുന്ന രൂപം സൃഷ്ടിച്ചത്:- Sunirmaes (സംവാദം | സംഭാവനകൾ) (added Category:അക്ഷരവൃക്ഷം 2020 സംസ്കൃതം രചനകൾ using HotCat)
(മാറ്റം) ←പഴയ രൂപം | ഇപ്പോഴുള്ള രൂപം (മാറ്റം) | പുതിയ രൂപം→ (മാറ്റം)
रोगप्रतिरोधः

रोगाः - एतत् पदम् अस्माकं सर्वेषां सुपरिचितम् एव। कारणम् अद्य प्रायः सर्वेषां जनानां विभिन्नाः रोगाः सन्ति। रोगाणाम् कारणं तु अस्माकं प्रवृत्तयः एव। रोगं विना अद्य कोपि नास्ति । अद्यत्वे मनुष्याणां प्रमेहः, रक्तसम्मर्दः, कोलस्ट्रोल् इत्यादयः जीवनशैलीरोगाः सन्ति। वयं रोगानन्तरं चिकित्सां कुर्मः। तत् केवलम् अस्माकं जीवनरक्षणार्थं भवति। वयम् आरोग्यपूर्णजीवनार्थं परिश्रमं कुर्याम। तन्निमित्तं वयम् अस्माकं भक्षणे मधुर-लवणादीनाम् अधिकतया उपयोगं न कुर्याम। वयं नित्येन व्यायामं कुर्याम।व्यायामः अस्मभ्यम् उर्जम्, उन्मेषः, आरोग्यम् इत्येतत् सर्वं ददाति। अस्माकं भक्षणे प्रोट्टीन्, काल्स्यम् जीवकम् इत्यादीनि आवश्यकानि। तानि शाकेभ्यः पर्णेभ्यः मांसात् मीनेभ्यश्च लभ्यन्ते। एतत् सर्वं पालयामश्चेत् अस्माकं रोगप्रतिरोधशेषी वर्धते। शुभम्।

ദിയാ പ്രജിത്ത്
7 എ ജി.യു.പി.സ്കൂൾ
കുന്നുമ്മൽ ഉപജില്ല
കോഴിക്കോട്
അക്ഷരവൃക്ഷം പദ്ധതി, 2020
ലേഖനം



 സാങ്കേതിക പരിശോധന - sreejithkoiloth തീയ്യതി: 06/ 05/ 2020 >> രചനാവിഭാഗം - ലേഖനം