पश्यतु पश्यतु प्रकृतिं पश्यतु
नयनमनोहरदृश्यंं पश्यतु |
सोमो गच्छति भाति च दिनकर:
बहुविधवर्णां प्रकृतिं पश्यतु ||
पिक: गायति नृत्यति केकी
वृक्षात्कूर्दते वानरवीर: |
विकसितपुष्पे मधुप: विहरति
पवनो वाति च मन्दं मन्दम् ||
मीन: क्रीडति भेक: चञ्चति
नूपुरध्वनिना वहति नदी |
कृषक: क्षेत्रे कर्म कर्तुं
वृषभान् नयति च शनै: शनै: ||
दृश्यतु दृश्यतु प्रकृतिं दृश्यतु
नानावर्णां प्रकृतिं दृश्यतु |
शुद्ध्या भक्त्या प्रीत्या गत्वा
करोतु मंंगलकर्माणि ||